श्री मंगलचंडिकास्तोत्रम्

॥ ॐ ह्रीं श्रीं क्लीं सर्व-पूज्ये देवि मंगल-चण्डिके ऐं क्रू फट् स्वाहा ॥

ध्यान

देवीं षोड्शवष यां शश्वत्सुस्थिरयौवनाम्। सर्वरुपगुणाढ्यां च कोमलांगीं मनोहराम्॥ श्वेतचम्पकवर्णाभा चन्द्रकोटि-समप्रभाम्। वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम्॥ बिभ्रतीं कवरीभारं मल्लिकामाल्यभूषितम्। विम्बोष्ठीं सुदतीं शुद्धां शरत्पद्मनिभाननाम्॥ ईषद्धास्यप्रसन्नास्यां सुनीलोत्पललोचनाम्। जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसम्पदाम्॥ संसारसागरे घोरे पोतरुपां वरां भजे॥ देव्याश्च द्यानमित्येवं स्तवनं श्रूयतां मुने। प्रयतः संकटग्रस्तो येन तुष्टाव शंकरः॥

शंकर उवाच

रक्ष रक्ष जगन्मातर्देवि मंगलचण्डिके । हारिके विपदां राशेर्हर्ष-मंगल-कारिके ॥ हर्ष-मंगल-दक्षे च हर्ष-मंगल-चण्डिके । शुभे मंगल-दक्षे च शुभ-मंगल-चण्डिके ॥ मंगले मंगलार्हे च सर्व-मंगल-मंगले । सतां मंगलदे देवि सर्वेषां मंगलालये ॥ पूज्या मंगलवारे च मंगलाभीष्ट-दैवते । पूज्ये मंगल-भूपस्य मनुवंशस्य संततम् ॥ मंगलाधिष्ठातृदेवि मंगलानां च मंगले । संसार-मंगलाधारे मोक्ष-मंगल-दायिनी ॥ सारे च मंगलाधारे पारे च सर्वकर्मणाम् । प्रतिमंगलवारे च पूज्ये च मंगलप्रदे ॥ स्तोत्रेणानेन शम्भुश्च स्तुत्वा मंगलचण्डिकाम्। प्रतिमंगलवारे च पूजां कृत्वा गतः शिवः ॥ देव्याश्च मंगल-स्तोत्रं यं श्रृणोति समाहितः । तन्मंगलं भवेच्छश्वन्न भवेत् तदमंगलम् ॥ प्रथमे पूजिता देवी शंभुना सर्वमंगला । द्वितीये पूजिता देवी मंगलेन ग्रहेण च ॥ तृतीये पूजिता भद्रा मंगलेन नृपेण च । चतुर्थे मंगले वारे सुन्दरीभिश्च पूजिता ॥ पञ्चमे मंगलाकाङ्क्षैर्नरैर्मंलचण्डिका ॥ पूजिता प्रतिविश्वेषु विश्वेशै: प्रतिमा सदा । तत: सर्वत्र संपूज्या सा बभूव सुरेश्वरी ॥ देवादिभिश्च मुनिभिर्मनुभिर्मानवैर्मुने । देव्याश्च मंगलस्तोत्रं य: शृणोति समाहित: ॥ तन्मंगलं भवेच्छश्वन्न भवेत्तदमंगलम् । वर्धन्ते तत्पुत्रपौत्रा मंगलं च दिने दिने ॥

इति श्री ब्रह्मवैवर्ते मङ्गलचण्डिका स्तोत्रं संपूर्णम्