श्री शनि स्तोत्रम्
अस्यश्री शनैश्चर स्तोत्र मंत्रस्य दशरथ ऋषिः । शनैश्चरोर्देवता त्रिष्टुप छंदः । शनैश्चर प्रीत्यर्थ जपे विनियोगः ।अथ ध्यानं ।
दशरथ उवाचः
कोणोन्तको रौद्रयमाऽथ बभ्रु कृष्ण शनि पिन्गलमन्द्सौरि । नित्यं स्मृतो यो हस्ते च पीडां तस्मै नमः श्री रविनन्दनाय ।। १ ।। सुरासुराः किं पुरुषोरगेन्द्रागन्धर्व विध्याधर पन्नगाश्र्च । पीडयन्ति सर्वे विषमस्थितेन तस्मै नमः श्री रविनन्दनाय ।। २ ।। नरा नरेन्द्राः पशवो मृगेन्द्राः वनयाश्र्च ये कीटपतन्गभुंगाः । पीडयन्ति सर्वे विषमस्थितेन तस्मै नमः श्री रविनन्दनाय ।। ३ ।। देशाश्र्च दुर्गाणि वनानि यत्र सेनानिवेशाः पुरपत्तनानि । पीडयन्ति सर्वे विषमस्थितेन तस्मै नमः श्री रविनन्दनाय ।। ४ ।। तिलैर्यवैर्माष गुडान्न दानै र्लोहेन नीलांबर दानतो वा । प्रीणाति मन्त्रैनिंज्जवासरे च तस्मै नमः श्री रविनन्द्नाय ।। ५ ।। प्रयागकूले यमुनातटे च, सरस्वति पुण्यजले गुहायामः । यो योगनां ध्यानगताऽपि सूक्ष्मस्तस्मै नमः श्री रविनन्दनाय।। ६ ।। अन्य प्रदेशोत्स्वगृह प्रवष्टिस्तदीयवारे स नरः सुखी स्यात् । गृहाद्गतो यो न पुनः प्रयाति तस्मै नमः श्री रविनन्दनाय ।। ७ ।। स्रष्टा स्वयं भूर्भुव नत्रयस्य माता हरीशो हरते पिनाकी । एकस्त्रिधा ॠग्यजुः साममुर्ति स्तस्मै नमः श्री रविनन्दनाय ।। ८ ।। शन्यष्ठकं यः पथतः प्रभाते नित्य, सुपुत्रैः पशुबान्धवैश्र्च । पठेत्तु सैख्यं भुवि भोगयुक्तः प्राप्नोति निर्वाणपदं तदन्ते ।। ९ ।। कोणस्थ पिन्गलो बभ्रुः कृष्णो रुद्रोऽन्तके यमः । सौरि शनैक्ष्चरो मन्दः पिप्पलादेन संस्तुतः।। १० ।। एतानि दशनामानि , प्रातरुत्थाय यः पठेत् । शनैक्ष्चरकृता पीडा न कदाचिद् भविष्यति ।। ११ ।।
।। इति श्री शनैश्चर स्तोत्रम् संपूर्णम् ।।