श्रीमृत्युञ्जयस्तोत्रम्
रत्नसानुशरासनं रजताद्रिश्रृंगनिकेतनं, शिञ्जिनीकृतपन्नगेश्वरमच्युतानलसायकम्। क्षिप्रदग्धपुरत्रयं त्रिदशालयैरभिवंदितं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यम:॥१॥ पंचपादपपुष्पगन्धिपदाम्बुजद्वयशोभितं, भाललोचनजातपावकदग्धमन्मथविग्रहम्। भस्मदिग्धकलेवरं भवनाशिनं भवमव्ययं, चन्द्रशेखरमाश्रये मम किं करिष्यति वै यम:॥२॥ मत्तवारणमुख्यचर्मकृतोत्तरीयमनोहरं, पंकजासनपद्मलोचनपूजितांगघ्रिसरोरुहम्। देवसिद्धतरंगिणी करसिक्तशीतजटाधरं, चन्द्रशेखरमाश्रये मम किं करिष्यति वै यम:॥३॥ कुण्डलीकृतकुण्डलीश्वरकुण्डलं वृषवाहनं, नारदादिमुनीश्वरस्तुतवैभवं भुवनेश्वरम्। अंधकान्तकमाश्रितामरपादपं शमनान्तकं, चन्द्रशेखरमाश्रये मम किं करिष्यति वै यम:॥४॥ यक्षराजसखं भगाक्षिहरं भुजंगविभूषणं, शैलराजसुतापरिष्कृतचारुवामकलेवरम्। क्ष्वेडनीलगलं परश्वधधारिणं मृगधारिणं, चन्द्रशेखरमाश्रये मम किं करिष्यति वै यम:॥५॥ भेषजं भवरोगिणामखिलापदामपहारिणं, दक्षयज्ञविनाशिनं त्रिगुणात्मकं त्रिविलोचनम्। भुक्तिमुक्तिफलप्रदं निखिलाघसंघनिबर्हणं, चन्द्रशेखरमाश्रये मम किं करिष्यति वै यम:॥६॥ भक्तवत्सलमर्चतां निधिमक्षयं हरिदम्बरं, सर्वभूतपतिं परात्परमप्रमेयमनूपमम्। भूमिवारिनभोहुताशनसोमपालितस्वाकृतिं, चन्द्रशेखरमाश्रये मम किं करिष्यति वै यम:॥७॥ विश्वसृष्टिविधायिनं पुनरेव पालनतत्परं, संहरन्तमथ प्रपंचमशेषलोकनिवासिनम्। क्रीडयन्तमहर्निशं गणनाथयूथसमाव्रतं, चन्द्रशेखरमाश्रये मम किं करिष्यति वै यम:॥८॥
॥ इति श्रीपद्मपुराणान्तर्गत उत्तरखण्डे श्रीमृत्युञ्जयस्तोत्रं सम्पूर्णम् ॥