अभयङ्करं शिवरक्षास्तोत्रम्
शिवरक्षास्तोत्रम्
श्री गणेशाय नमः ॥
अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः ॥ श्री सदाशिवो देवता ॥ अनुष्टुप् छन्दः ॥ श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः ॥
चरितं देवदेवस्य महादेवस्य पावनम् । अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥ १॥ गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् । शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥ २॥ गंगाधरः शिरः पातु भालं अर्धेन्दुशेखरः । नयने मदनध्वंसी कर्णो सर्पविभूषण ॥ ३॥ घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः । जिह्वां वागीश्वरः पातु कंधरां शितिकंधरः ॥ ४॥ श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः । भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् ॥ ५॥ हृदयं शंकरः पातु जठरं गिरिजापतिः । नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः ॥ ६॥ सक्थिनी पातु दीनार्तशरणागतवत्सलः । उरू महेश्वरः पातु जानुनी जगदीश्वरः ॥ ७॥ जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः । चरणौ करुणासिंधुः सर्वाङ्गानि सदाशिवः ॥ ८॥ एतां शिवबलोपेतां रक्षां यः सुकृती पठेत् । स भुक्त्वा सकलान्कामान् शिवसायुज्यमाप्नुयात् ॥ ९॥ ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये । दूरादाशु पलायन्ते शिवनामाभिरक्षणात् ॥ १० ॥ अभयङ्करनामेदं कवचं पार्वतीपतेः । भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् ॥ ११॥ इमां नारायणः स्वप्ने शिवरक्षां यथाऽऽदिशत् । प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यः तथाऽलिखत् ॥ १२॥
इति श्रीयाज्ञवल्क्यप्रोक्तं शिवरक्षास्तोत्रं अथवा अभयङ्करकवचं सम्पूर्णम् ॥
स्रोत: sanskritdocuments.org पर उपलब्ध पारम्परिक पाठ के आधार पर।